-
Chapter 18: Moksha Sannyasa Yog
अर्जुन उवाच |सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् |त्यागस्य च हृषीकेश पृथक्केशिनिषूदन || 1|| श्रीभगवानुवाच |काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु: |सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: || 2|| त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिण: |यज्ञदानतप:कर्म न त्याज्यमिति…
-
Chapter 17: Shraddhatraya Vibhag Yog
अर्जुन उवाच |ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: |तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: || 1|| श्रीभगवानुवाच |त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |सात्त्विकी राजसी चैव तामसी चेति तां शृणु || 2||…
-
Chapter 16: Daivasura Samad Vibhaga Yog
श्रीभगवानुवाच |अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: |दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || 1|| अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् |दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् || 2|| तेज: क्षमा धृति: शौचमद्रोहोनातिमानिता |भवन्ति सम्पदं दैवीमभिजातस्य भारत || 3|| दम्भो दर्पोऽभिमानश्च क्रोध:…
-
Chapter 15: Purushottam Yog
श्रीभगवानुवाच |ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् |छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् || 1|| अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवाला: |अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके || 2|| न रूपमस्येह तथोपलभ्यतेनान्तो न चादिर्न च सम्प्रतिष्ठा |अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन…
-
Chapter 14: Gunatray Vibhag Yog
श्रीभगवानुवाच |परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: || 1|| इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: |सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च || 2|| मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम्…
-
Chapter 13: Kshetra Kshetrajna Vibhag Yog
श्रीभगवानुवाच |इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: || 1|| क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम || 2|| तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च…
-
Chapter 12: Bhakti Yog
अर्जुन उवाच |एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: || 1|| श्रीभगवानुवाच |मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |श्रद्धया परयोपेतास्ते मे युक्ततमा मता: || 2|| ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते…
-
Chapter 11: Vishwaroop Darshan Yog
अर्जुन उवाच |मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् |यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || 1|| भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम् || 2|| एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||…
-
Chapter 10: Vibhuti Yog
श्रीभगवानुवाच |भूय एव महाबाहो शृणु मे परमं वच: |यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 1|| न मे विदु: सुरगणा: प्रभवं न महर्षय: |अहमादिर्हि देवानां महर्षीणां च सर्वश: || 2|| यो मामजमनादिं च…
-
Chapter 9: Raj Vidya Rajguhya Yog
श्रीभगवानुवाच |इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 1|| राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् || 2|| अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप |अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि || 3|| मया…
-
Chapter 8: Akshar Brahma Yog
अर्जुन उवाच |किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || 1|| अधियज्ञ: कथं कोऽत्र देहेऽस्मिन्मधुसूदन |प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि: || 2|| श्रीभगवानुवाच |अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते…
-
Chapter 7: Gyan Vigyan Yog
श्रीभगवानुवाच |मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: |असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 1|| ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: |यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते || 2|| मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये |यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत: ||…
Blog
